Loading data... On slow networks this could take a few minutes.
100%

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥

मल्लिनाथः अध्यासामासुरिति ॥ अमी त्रयो यान्युत्तुङ्गहेमपीठानि आसनानि अध्यासामासुरधितष्ठुः । येषूपविष्टा इत्यर्थः । `अधिशीङ्स्थासां कर्म` (अष्टाध्यायी १.४.४६ ) इति कर्मत्वम् । `आस उपवेशने` लिट् । `दयायासश्च` (अष्टाध्यायी ३.१.३७ ) इत्याम्प्रत्ययः । `कृञ्चानुप्रयुज्यते लिटि` (अष्टाध्यायी ३.१.४० ) इत्यस्तेरनुप्रयोगः । `आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य` (अष्टाध्यायी १.३.६३ ) इति कृञ एवेति नियमादस्तेर्नात्मनेपदम् । तैः पीठैः केसरिभिः सिंहैः क्रान्तानां त्रिकूटस्य त्रिकूटाद्रेः शिखराणामुपमा सादृश्यमूहे ऊढा । वहेः कर्मणि लिट् । संप्रसारणम् । त्रीणि कूटान्यस्येत्यन्वर्थसंज्ञा । `कूटोऽस्त्री शिखरं शृङ्गम्` इत्यमरः । उपमालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्या सा मा सु रु त्तु ङ्ग
हे पी ठा नि या न्य मी
तै रू हे के शा रि क्रा न्त
त्रि कू शि खि रो मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.