विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यताम् ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥

मल्लिनाथः विजय इति ॥ सेनायाः कर्त्र्या विजयः साक्षिमात्रे उदासीने एव फलभाजि त्वयि समीक्ष्योक्ते सांख्योक्ते । `सांख्यं समीक्ष्यम्` इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य कर्त्र्याः भोगः सुखदुःखानुभव इवापदिश्यतां व्यवह्रियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । सांख्या अप्याहुः–कर्तेव भवत्युदासीनः` इति, `सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः` इति च
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि स्व यि से ना याः
सा क्षि मा त्रे ऽपा दि श्य ताम्
भा जि मी क्ष्यो क्ते
बु द्धे र्भो वा त्म नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.