Loading data... On slow networks this could take a few minutes.
100%

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥

मल्लिनाथः लिलङ्घयिषत इति ॥ लोकांल्लङ्घयितुमिच्छतो लिलङ्घयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घ्यान् स्वयं दुर्लङ्घ्यान् । कुतः । अलघीयसोऽतिगुरून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः । वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन् भवतः क्षमा तितिक्षा वेलेव कूलमिव । `वेला कूलेऽपि वारिधेः` इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
लि ङ्घ यि तो लो का
ङ्घ्या घी सः
या वा म्भो नि धी न्रु न्धे
वे ले तः क्ष मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.