हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥

मल्लिनाथः हत इति ॥ हिडिम्बरिपुणा भीमेन द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः । `मातुरुत्संख्यासंभद्रपूर्वायाः` (अष्टाध्यायी ४.१.११५ ) इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः । तस्मिन् राज्ञि जरासन्धे । सहिताभ्यां पत्नीभ्यामर्धशः प्रसूतो जरया नाम पिशाच्या संधितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । `चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः` इत्यमरः । मित्रव्यसनी मित्रव्यसनवान् । ४८ शिशुपालवधे मित्रभ्रंशवानिति यावत् । `व्यसनं विपदि भ्रंशे` इत्यमरः । दमघोषाज्जातो दमघोषजश्चैद्यः सुखेन दम्यत इति सुदमः । एकाकित्वात् सुसाध्य इत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हृ ते हि डि म्ब रि पु णा
रा ज्ञि द्वै मा तु रे यु धि
चि स्य मि त्त्र व्य नि
सु मो घो जः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.