स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥

मल्लिनाथः द्वितीयः सर्गः । ४७ स्वेति ॥ केचिद्वृद्धाः स्वस्य शक्त्युपचये सामर्थ्यातिरेके यानं यात्रामाहुः । अथाह कामन्दक:-`प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥` इति । अपरे वृद्धाः परस्य शत्रोर्व्यसने विपदि । `व्यसनं विपदि भ्रंशे` इत्यमरः । यानमाहुः । अत्र मनुः-`तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः` (७।१८३) इति । तद्वयमुक्तपक्षद्वयं कर्तृ आसीनमनुद्युञ्जानम् । `ईदासः` (अष्टाध्यायी ७.२.८३ ) इति शानजाकारस्येकारादेशः । त्वामुत्थापयति प्रेरयति । तदुभयलाभादीदृक्कालो न कदापि लक्ष्यत इत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्व क्त्यु ये के चि
त्प स्य व्य ने ऽप रे
या मा हु स्त दा सी नं
त्वा मु त्था ति द्व यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.