मल्लिनाथः
गुणानामिति ॥ संध्यादीनां गुणानाम् । आयथातथ्यात् तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । `यथार्थे तु यथातथम्` इत्यमरः । यथार्थेऽ व्ययीभावः । स नपुंसकम्` (अष्टाध्यायी २.४.१७ ) इति नपुंसकत्वम् । `ह्रस्त्रो नपुंसके-` (अष्टाध्यायी १.२.४७ ) इति ह्रस्वत्वम् । ततो नञ्समासे अयथातथं, तस्य भाव आयथातथ्यम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । `यथातथयथापुरयोः पर्यायेण` (७३।३१) इति विकल्पान्नपूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्यप्रयोगादित्यर्थः । अर्थं प्रयोजनं ये विप्लावयन्ति निघ्नन्ति । कार्यहानिं कुर्वन्तीत्यर्थः । अमात्यानां व्यञ्जनं चिह्नं येषां ते तथोक्ताः । तद्वेषधारिण इत्यर्थः । `अवर्ज्यो बहुव्रीहिव्यधिकरणो जन्माद्युत्तरपदः` इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां संजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गर्ह्याः । त्याज्या इति यावत् । `कृत्यानां कर्तरि वा` (अष्टाध्यायी २.३.७१ ) इति कर्तरि षष्ठी । अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| गु | णा | ना | मा | य | था | त | थ्या |
| द | र्थं | वि | प्ला | व | य | न्ति | ये |
| अ | मा | त्य | व्य | ञ्ज | ना | रा | ज्ञां |
| दू | ष्या | स्ते | श | त्रु | सं | ज्ञि | ताः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.