Loading data... On slow networks this could take a few minutes.
100%

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥

मल्लिनाथः सामेति ॥ सकोपस्य रूढवैरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य क्वथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः । तस्माद्दण्ड्य एव सः । मनुवचनं त्वप्ररूढवैरविषयमिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सा वा दाः को स्य
स्य प्र त्यु दी काः
प्र प्त स्ये सा
र्पि स्तो बि न्द वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.