Loading data... On slow networks this could take a few minutes.
100%

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् ।
कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥

मल्लिनाथः अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । `अनञ्पूर्वः` इति निषेधात्समासेऽपि न ल्यबादेशः । कीर्तिः कथंकारम् । कथमित्यर्थः । `अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्` (अष्टाध्यायी ३.४.२७ ) इत्यनर्थकादेव करोतेः कथंपूर्वाण्णमुल । अनालम्बा निराधारा कीर्तिर्यां दिवमधिरोहति । न कथंचिदित्यर्थः । किंचिन्निःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः। तस्मात्कीर्तिमिच्छतः पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदोपचारात् समानकर्तृतानिर्वाहः । अत्र प्रस्तुतायाः कीर्तेर्विषयमहिम्ना अप्रस्तुतप्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कृ त्वा हे या पा
मु च्चै र्मू र्ध सु वि द्व षाम्
ङ्का ना म्बा
की र्ति द्या धि रो ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.