तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥

मल्लिनाथः तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । `स्थूलदूर-` (अष्टाध्यायी ६.४.१५६ ) इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथाहिपञ्चाग्निसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामग्नीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
१०
ते स्वि ध्ये ते स्वी
वी या पि ण्य ते
ञ्च ञ्च
स्त नो जा वे साम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.