मल्लिनाथः
स्वयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्पमित्यर्थः । `विभाषा सुपो बहुच्पुरस्तात्` (अष्टाध्यायी ५.३.६८ ) इति बहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति । `स्यादीषदसमाप्तौ तु बहुप्रकृतिलिङ्गके` इति वचनात् प्रकृतिलिङ्गता । लघुर्निष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः।&#३२; द्वितीयः सर्गः। ४५ बहुतृणमिति । स्पष्टोपमासाहचर्यात्कल्पब्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादीनामौपम्यवाचकेष्वभिधानात् । तस्मिन्नुपेयुषि प्राप्ते सति स्वयं प्रणमते स्वयमेव प्रह्वीभवति । `कर्मवत्कर्मणा तुल्यक्रियः` (३।१८७) इति कर्मवद्भावात् `भावकर्मणोः` (अष्टाध्यायी १.३.१३ ) इत्यात्मनेपदम् । `न दुहस्नुनमा यक्चिणौ` (अष्टाध्यायी ३.१.८९ ) इति यक्प्रतिषेधः । वायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालंकारः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| स्व | यं | प्र | ण | ते | ऽल्पे | ऽपि | |
| प | र | वा | या | वु | पे | यु | षी |
| नि | द | र्श | न | म | सा | रा | णां |
| ल | घु | र्ब | हु | तृ | णं | न | रः |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.