Loading data... On slow networks this could take a few minutes.
100%

तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥

मल्लिनाथः तुल्य इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण ग्रसते, हिमांशुं चन्द्रमाशु शीघ्रं ग्रसते गिलतीति यत् । `ग्रसिते गिलिते गीर्णम्` इत्यभिधानात् । तत् म्रदिम्नो मार्दवस्य फलं स्फुटम् । `पृथ्वादिभ्य इमनिच्` (अष्टाध्यायी ५.१.१२२ ) इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीव्रेण भवितव्यम् । अन्यथा मृदुः सर्वत्र बाध्यत इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् । `अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्याद्विनियन्त्रिता ॥` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तु ल्ये ऽप रा धे स्व र्भा नु
र्भा नु न्तं चि रे यत्
हि मां शु मा शु ग्र ते
न्म्र दि म्नः स्फु टं लम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.