रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥

मल्लिनाथः रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासस्य विशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः। `प्रतिमानं प्रतिबिम्बं प्रतिमा-` इत्यमरः । ते त्रय एकाकिनोऽसहाया अपि । `एकादाकिनिच्चासहाये` (अष्टाध्यायी ५.३.५२ ) इत्याकिनिच्प्रत्ययः । परितोऽभितः सर्वतः। `पर्यभिभ्यां च` (अष्टाध्यायी ५.३.९ ) इति तसिल्प्रत्ययः । स च सर्वोभयार्थाभ्यामिष्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात् पुरुषसमूहेनावृता इवेत्युप्रेक्षा । चकाशिरे । `सर्वपुरुषाभ्यां णढञौ` (अष्टाध्यायी ५.१.१० ) `पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्` (वा०) इति समूहे ढञ्प्रत्ययः । एतेन विजनत्वमुक्तम् । यद्यपि निस्तम्भे निर्गवाक्षे च निर्भित्त्यन्तरसंश्रये । प्रासादाग्रे त्वरण्ये वा मन्त्रयेद्भावभाविनौ ॥` इति कामन्दकीये मन्त्रभूमेः स्तम्भाप्राचुर्यनिषेधो गम्यते । तथापि तस्यापि विजनोपलक्षणत्वाददोष इति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्न स्त म्भे षु सं क्रा न्त
प्र ति मा स्ते का शि रे
का कि नो ऽपि रि तः
पौ रु षे वृ ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.