Loading data... On slow networks this could take a few minutes.
100%

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥

मल्लिनाथः तुङ्गत्वमिति ॥ अद्रौ पर्वते तुङ्गत्वमौन्नत्यम् । अस्तीति शेषः, अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतराऽगाधता नास्ति । सिन्धौ समुद्रेऽगाधता गम्भीरतास्ति । इदं तुङ्गत्वं नास्ति । मनस्विनि वीरे त्वलङ्घनीयताहेतुरलङ्घ्यत्वकारणं तदुभयं तुङ्गत्वमगाधता च । तस्मादद्रिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तु ङ्ग त्व मि रा ना द्रौ
ने दं सि न्धा वा गा ता
ङ्घ नी ता हे तु
रु यं न्म स्वि नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.