मल्लिनाथः
४४ शिशुपालवधे असंपादयत इति ॥ किंच जातिः ब्राह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः साधनैः । करणे तृतीया । कञ्चिदर्थं सुकृतकीर्त्यादिपौरुषार्थम्, अन्यत्र गोत्वपाचकत्वशौक्ल्यादिभिः स्वाभिधेयभूतैः करणैः कञ्चिदर्थं व्यवहाररूपं प्रयोजनमसंपादयतः। उभयत्र तादृग्जात्याद्यसंभवादिति भावः । पुंसो जन्म सत्तालाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्थादिशब्दस्येव । `तत्र तस्येव` (अष्टाध्यायी ५.१.११६ ) इति वतिप्रत्ययः । `स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः` इति केशवः। संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किञ्चिन्नाममात्रमनुभवितुम् , अन्यत्र तादृक्तामनुभवितुमित्यर्थः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| अ | सं | पा | द | य | तः | क | ञ्चि |
| द | र्थं | जा | ति | क्रि | या | गु | णैः |
| य | दृ | च्छ | श | ब्द | व | त्पुं | सः |
| सं | ज्ञा | यै | ज | न्म | के | व | लम् |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.