विराद्ध एवं भमता विराद्धा बहुधा च नः ।
निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥

मल्लिनाथः विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोऽस्माकं च विराद्धा विप्रकर्ता श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः । पैतृष्वसेयत्वात् सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्योन्यापक्रियया अरिनिर्वय॑ते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि रा द्ध वं ता
वि रा द्धा हु धा नः
नि र्व त्य ते ऽरिः क्रि या
श्रु श्र सः सु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.