आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् ।
कथापि खलु पापानामलमश्रेयसे यतः ॥

मल्लिनाथः आलप्येति ॥ स चैद्यो बभ्रोर्यादवभेदस्य दारान् भार्याम् । `भार्या जायाथ पुं भूम्निं दाराः स्यात्तु कुटुम्बिनी` इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योञ्चार्यालम् । नालपनीयमित्यर्थः । `अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा` (अष्टाध्यायी ३.४.१८ ) इति क्त्वाप्रत्यये समासे ल्यबादेशः । यतः पापानां पाप्मनां कथनमुञ्चारणमपि । `चिन्तिपूजिकथिकुम्बि` (अष्टाध्यायी ३.३.१०५ ) इत्यप्रत्ययः । अश्रेयसेऽनर्थायालं समर्थं खलु । `नमःस्वस्ति-` (अष्टाध्यायी २.३.१६ ) इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधनसमर्थनात् कार्येण कारणसमर्थकोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ला प्या मि दं भ्रो
त्स दा रा पा रत्
था पि लु पा पा ना
श्रे से तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.