मल्लिनाथः
विधायेति ॥ ये नरः पुमांसः । `स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः` इत्यमरः । सामर्षे प्रागेव सरोषेऽरौ वैरं विधाय । स्वयं चापकृत्येत्यर्थः । उदासते उपेक्षन्ते ते नरः कक्षे गुल्मे । `कक्षस्तु गुल्मे दोर्मूले पापे जीर्णवने तृणे` इति वैजयन्ती । उदर्चिषमधिकज्वालमग्निं प्रक्षिप्य अभिमारुतम् । आभिमुख्येऽव्ययीभावः । शेरते स्वपन्ति । तद्वन्नाशहेतुरित्यर्थः । `शीङो रुट्` (अष्टाध्यायी ७.१.१६ ) इति रुडागमः । अत्र ये उदासते ते शेरते इति विशिष्टौदासीन्यशयनयोर्वाक्यार्थयोर्निर्दिष्टेकत्वासंभवात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाक्षेपे तस्योत्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्वकारः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| वि | धा | य | वै | रं | सा | म | र्षे |
| न | रे | ऽरौ | यः | उ | दा | स | ते |
| प्र | क्षि | प्यो | द | र्चि | षं | क | क्षे |
| शे | र | ते | ते | ऽभि | मा | रु | तम् |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.