Loading data... On slow networks this could take a few minutes.
100%

जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥

मल्लिनाथः जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्वल्यमाना भृशं ज्वलन्ती। `धातोरेकाचो हलादेः क्रियासमभिहारे यङ्` (अष्टाध्यायी ३.१.२२ ) । ततो लटः शानजादेशे टाप् । असौ नराः पुरुषा एव शिखिनोऽग्नयस्तेषां त्रयी। `द्वित्रिभ्याम्-` (अष्टाध्यायी ५.२.४३ ) इत्यादिना तयस्यायजादेशे कृते `टिड्ढाणञ्-` (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप् । सभा आस्थानी सैव वेदिः । `वेदिः परिष्कृता भूमिः` इत्यमरः । तस्यां व्यद्योतिष्ट दीप्यते स्म । `द्युद्भ्यो लुङि` (अष्टाध्यायी १.३.९१ ) इति वा तङ् । रूपकालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जा ज्व ल्य मा ना तः
शा न्त ये मु पे यु षी
व्य द्यो ति ष्ट भा वे द्या
सौ शि खि त्र यी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.