Loading data... On slow networks this could take a few minutes.
100%

ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखम् ।
पुरः क्लश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥

मल्लिनाथः ध्रियत इति ॥ एकोऽपि रिपुर्यावद्ध्रियतेऽवतिष्ठते । `धृङ् अवस्थाने` इति धातोस्तौदादिकात् कर्तरि लट् । `रिङ्शयग्लिङ्क्षु” (अष्टाध्यायी ७.४.२८ ) इति रिङादेशः । तावत् तदवधि सुखं कुतः। यावत्तावच्च साकल्येऽवधौ` इत्यमरः । तथाहि-सिंहिकाया अपत्यं पुमान् सैहिकेयो राहुः । `तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुंतुदः` इत्यमरः । `स्त्रीभ्यो ढक्` (अष्टाध्यायी ४.१.१२० ) । असुरद्रुहां देवानां पुरोऽग्रे सोमं क्लिश्नाति धावते । प्राचुर्यात्सोमग्रहणम् । सूर्यं चेति भावः । तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । `अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्` इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ध्रि ते या दे को ऽपि
रि पु स्ता त्कु तः सु खम्
पु रः क्ल श्ना ति सो मं हि
सैं हि के यो ऽसु द्रु हाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.