विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥

मल्लिनाथः विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथा हि—उदकं कर्तृ । धूलिम् । स्वपरिभाविनीमिति भावः । पङ्कतामनीत्वा । नाधःकृत्येत्यर्थः । नावतिष्ठते । किंतु नीत्वैव तिष्ठतीत्यर्थः । `समवप्रविभ्यः स्थः` (अष्टाध्यायी १.३.२२ ) इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो दृष्टान्तालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि क्ष खि ली कृ
त्य प्र ति ष्ठा लु दु र्ल भा
नी त्वा ङ्क तां धू लि
मु कं ना ति ष्ठ ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.