Loading data... On slow networks this could take a few minutes.
100%

सखागरीयान्शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥

मल्लिनाथः सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । `ड्वितः क्रिः" (अष्टाध्यायी ३.३.८८ ) क्रेर्मम्नित्यम्` (वा०) सखा सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतःहि यस्मात्तौ कृत्रिममित्रशत्रू कार्यत उपकारापकाररूपकार्यवशात् । निर्वृत्ताविति शेषः। उक्तकार्योपाधेर्यावज्जीवमनपायादनयोर्मित्रामित्रभावोऽप्यनपायीति गरीयांस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सहजातः सहजः एकशरीरावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृव्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः । पूर्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापद्येते न कृत्रिमशत्रुमित्रे । कृत्रिमः शत्रुः शत्रुरेव, मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ । न तु सहजौ, नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
खा री या न्श त्रु श्छ
कृ त्रि स्तौ हि का र्य तः
स्या ता मि त्रौ मि त्रे
प्र कृ ता पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.