Loading data... On slow networks this could take a few minutes.
100%

आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥

मल्लिनाथः आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोर्ज्यानिर्हानिः । `वीज्याज्वरिभ्यो निः` (उ० ४८८) इत्यौणादिको निः प्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । `किमिदंभ्यां वो घः` (अष्टाध्यायी ५.२.४० ) इति वतुपो वस्य घश्च । `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । नीतिर्नीतिसंग्रहः । एतद्द्वयातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत् षाड्गुण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह-तदिति । तद्द्वयमूरीकृत्याङ्गीकृत्य । `ऊरीकृतमुररीकृतमङ्गीकृतम्` इत्यमरः । `ऊर्यादिच्विडाचश्च` (अष्टाध्यायी १.४.६१ ) इति गतिसंज्ञायां `कुगतिप्रादयः` (अष्टाध्यायी २.२.१८ ) इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक् सत्वे । `षष्ट्याः पतिपुत्र-` (अष्टाध्यायी ८.३.५३ ) इत्यादिना सत्वमिति स्वामी । तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे ष्यञ्प्रत्ययः । प्रतायते विस्तार्यते । कर्मणि लट् । `तनोतेर्यकि` (अष्टाध्यायी ६.४.४४ ) इत्यात्वम् । तस्सादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्मो यः ज्या नि
र्द्व यं नी ति रि ती ति
दू री कृ त्य कृ ति भि
र्वा स्प त्यं प्र ता ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.