तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥

मल्लिनाथः तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिम्ना ऐश्वर्येण तृप्तियोगः संतोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाङ्क्षी । वृद्ध्यर्थमिति भावः । महार्णवो दृष्टान्तः दृष्टः अन्तो निश्चयो यस्मिन् , दृष्टान्तो निदर्शनम् । उपमानमिति यावत् । राज्ञा वृद्धावलंबुद्धिर्न कार्या । `असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना ॥` इति न्यायादिति भावः । नायं दृष्टान्तालंकारः । बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु दृष्टान्तशब्देन तस्याभिधानादुपमालंकारः । अत एव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तृ प्ति यो गः रे णा पि
हि म्ना हा त्म नाम्
पू र्ण श्च न्द्रो या का ङ्क्षी
दृ ष्टा तो ऽत्र हा र्ण वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.