मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥

मल्लिनाथः मन्त्र इति ॥ संवृतैर्गुप्तैः सर्वाङ्गैः पूर्वोक्तैरुपायादिभिरुरःस्थलादिभिश्चोपलक्षितोऽपि । सर्वाङ्गसंवृतोऽपीत्यर्थः । मन्त्रो विचारः। अधीरो भीरुः युध्यत इति योधो भट इव । पचाद्यच् । परेभ्योऽन्येभ्योऽरिभ्यश्च । `परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः` इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च तस्य शङ्कया चिरं स्थातुम् । विलम्बितुमित्यर्थः । न सहते न क्षमः । शकधृष-` (अष्टाध्यायी ३.४.६५ ) इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम् , अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्त्रो यो वा धी रः
र्वा ङ्गैः सं वृ तै पि
चि रं स्था तुं
रे भ्यो भे ङ्क या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.