सार्थमुध्धवसीरिभ्यामथासावसदत्सदः ।
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥

मल्लिनाथः सार्धमिति ॥ अथ संदेहानन्तरं असौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकाव्यौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । `गीष्पतिर्धिषणो गुरुः` इति `शुक्रो दैत्यगुरुः काव्यः` इति चामरः । चन्द्रस्येमां चान्द्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शनाभेदः-उद्धवसीरिभ्यां सार्धं उद्धवरामाभ्यां सह सदः सभामासदत् अगमत् । राजसदसः प्रासादत्वादिति भावः । सदेर्लुङि `पुषादित्वात्-` (अष्टाध्यायी ३.१.५५ ) इति च्लेरङादेशः । अत्र मनु:-`गिरि पृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेद्भावभावितौ ॥` (७।१७४) इति
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सा र्थ मु ध्ध सी रि भ्या
था सा त्स दः
गु रु का व्या नु गां बि भ्र
च्चा न्द्री भि भः श्रि यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.