Loading data... On slow networks this could take a few minutes.
100%

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥

मल्लिनाथः सर्वेति ॥ सर्वाणि कार्याणि संध्यादीनि तानि शरीराणीवेत्युपमितसमासः । व्यासे सौगतानामिवेति लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येष्वित्यर्थः । अङ्गानि स्कन्धा इवेत्युपमितसमासः । तेषां पञ्चकं मुक्त्वा । स्कन्धपुञ्चकमिवाङ्गपञ्चकं हित्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` (अष्टाध्यायी ५.१.५८ ) इति कप्रत्ययः । सुगतो भक्तिर्भजनीय एषां ते सौगता बौद्धाः । `भक्तिः` (अष्टाध्यायी ४.३.९५ ) इत्यण्प्रत्ययः । तेषामन्य आत्मेव महीभृतामन्यो मन्त्रो नास्ति । कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत् , देशकालविभागः, विपत्तिप्रतीकारः, कार्यसिद्धिष्चेति पञ्चाङ्गानि । यथाह कामन्दकः-`सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥` इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसंतानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्तमानो ज्ञानसंतान एवात्मा इति बौद्धाः । एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा नास्ति, तथा राज्ञामङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीत्युपमालंकारः । तच्चास्माकं समग्रमेवेत्ययमेव यात्राकाल इति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व का र्य री रे षु
मु क्त्वा ङ्ग स्क न्द ञ्च कम्
सौ ता ना मि वा त्मा न्यो
ना स्ति न्त्रो ही भृ ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.