अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥

मल्लिनाथः अनिर्लोडितेति ॥ अनिर्लोडितं नालोकितं कार्यं येन तस्य । कार्याकार्यमजानत इत्यर्थः । वाचोऽस्य सन्तीति वाग्मी वावदूकः । `वाचो युक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि` इत्यमरः । `वाचो ग्मिनिः` (अष्टाध्यायी ५.२.१२४ ) इति ग्मिनिप्रत्ययः । तस्य वाग्जालं वागाडम्बरो निमित्ताल्लक्ष्यात् । `वेध्यं लक्ष्यं निमित्तं च शरव्यं च समं विदुः` इति वैजयन्ती। अपराद्धेषोः स्खलितबाणस्य । धनुः प्रहरणमस्येति धानुष्को धन्वी । `प्रहरणम्` (अष्टाध्यायी ४.४.५७ ) इति ठक् । `इसुसुक्तान्तात्कः` (अष्टाध्यायी ७.३.५१ ) `अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः । धन्वी धनुष्मान् धानुष्कः` इत्यमरः। तस्य वलिगतमिव वृथा निष्फलम् । कार्यज्ञस्य वचो ग्राह्यं न तु वाचालस्येति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्लो डि का र्य स्य
वा ग्जा लं वा ग्मि नो वृ था
नि मि त्ता रा द्धे षो
र्धा नु ष्क स्ये ल्गि तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.