मल्लिनाथः
संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराःप्रपञ्चतराः। `प्रथने वामशब्दे` (अष्टाध्यायी ३.३.३३ ) इति घञः प्रतिषेधे ॠदोरप्` (अष्टाध्यायी ३.३.५७ ) इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । `अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥` इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः। "क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु` इति वैजयन्ती । व्याख्यानरूपा भवन्त्वित्यर्थः। सूत्रव्याख्यानविशेषो भाष्यम् । `सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥` इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, न त्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| सं | क्षि | प्त | स्या | प्य | तो | ऽस्यै | व |
| वा | क्य | स्या | र्थ | ग | री | य | सः |
| सु | वि | स्त | र | त | रा | वा | चो |
| भू | ष्य | भू | ता | भ | व | न्तु | मो |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.