संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥

मल्लिनाथः संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराःप्रपञ्चतराः। `प्रथने वामशब्दे` (अष्टाध्यायी ३.३.३३ ) इति घञः प्रतिषेधे ॠदोरप्` (अष्टाध्यायी ३.३.५७ ) इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । `अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥` इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः। "क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु` इति वैजयन्ती । व्याख्यानरूपा भवन्त्वित्यर्थः। सूत्रव्याख्यानविशेषो भाष्यम् । `सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥` इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, न त्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं क्षि प्त स्या प्य तो ऽस्यै
वा क्य स्या र्थ री सः
सु वि स्त रा वा चो
भू ष्य भू ता न्तु मो
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.