Loading data... On slow networks this could take a few minutes.
100%

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥

मल्लिनाथः नैतदिति ॥ लघु संक्षिप्तमप्येतद्वचो भूयस्या बहुतरया । विस्तृतयापीत्यर्थः । "द्विवचनविभज्य-` (अष्टाध्यायी ५.३.५७ ) इत्यादिना ईयसुनि `बहोलोंपो भू च बहोः` (अष्टाध्यायी ६.४.१५८ ) इतीकारलोपो बहोश्च भूरादेशः । वाचा नातिशय्यते नातिरिच्यते । गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । `अयङ्यि क्ङिति` (७४।२२) इत्ययङादेशः । तथाहि-इन्धनौघान् दहतीति इन्धनौघधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वे भष्भावः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः। नात्येति नातिक्रामति । तेजसः प्रभावत्त्वमिव वचसोऽर्थवत्त्वमलङ्घयत्वहेतुरित्यर्थः । अत्र समानधर्मबिम्बबिम्बिततया दृष्टान्तालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नै ल्ल घ्व पि भू स्या
चो वा चा ति य्य ते
न्ध नौ प्य ग्नि
त्वि षा ना त्ये ति पू णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.