Loading data... On slow networks this could take a few minutes.
100%

विरोधिवचसो मूकान्वगीशानपि कुर्वते ।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥

मल्लिनाथः विरोधीति ॥ कृतिनां कुशलानां गिरः कर्त्र्यः । विरोधिवचसः प्रतिकूलवादिनो वागीशान वाक्पतीनपि । `वागीशो वाक्पतिः समौ` इत्यमरः । मूकान् निर्वाचः कुर्वते । जडयन्तीत्यर्थः । अनुलोमोऽनुकूलोऽर्थोऽभिधेयं येषां तेऽनुलोमार्था अनुकूलवादिनः । तान् जडान् मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतोऽस्मद्गिरः प्रवाच्या इति भावः । अत्र वागीशानां मूकीकरणाज्जडानां प्रवाक्त्वकरणाञ्चाशक्यवस्तुकरणरूपो विशेषोऽलंकारः । असंबन्धे संबन्धातिशयोक्तिप्रतिभोत्थापित इति संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि रो धि सो मू का
न्व गी शा पि कु र्व ते
डा प्य नु लो मा र्था
न्प्र वा चः कृ ति नां गि रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.