यद्वासुदेवेनादीनमनादीनवमीरितम् ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥

मल्लिनाथः &#३२; यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं न आदीनवोऽस्येत्यनादीनवं निर्दोषम् । `दोष आदीनवो मतः` इत्यमरः । यद्वच ईरितम् । `उत्तिष्ठमानस्तु परः` इत्यादिपक्षमाश्रित्य यदुक्तमित्यर्थः । तस्य वचसः सपदि क्रिया केवलं सद्योऽनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोक्तत्वादिति भावः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वा सु दे वे ना दी
ना दी मी रि तम्
स्त स्य दि
क्रि या के मु त्त रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.