Loading data... On slow networks this could take a few minutes.
100%

जगादवदनछद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥

मल्लिनाथः (कुलकम् ।) जगादेति ॥ वदनमेव छद्म कपटं यस्य तत् पद्मम् । वदनमेव पद्ममित्यर्थः । छद्मशब्देनासत्यप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसंचारिणः । मधु लिहन्तीति मधुलिहस्तान् मधुपान् । क्विप् । उदग्रैरुच्छ्रितैः दशनांशुभिः श्वैत्यं धावल्यं नयन्नेवं जगाद । तद्गुणालंकारः । तस्य मधुपसंनिधापकवदनापह्नवसापेक्षत्वात्तेन संकरः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
गा द्म
द्म र्य न्त पा ति नः
न्म धु लि हः श्वै त्य
मु ग्र नां शु भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.