Loading data... On slow networks this could take a few minutes.
100%

ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।
मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥

मल्लिनाथः ककुद्मिति ॥ पुनः । ककुद्मिकन्याया रेवत्या वक्त्रस्यान्तः अभ्यन्तरे वासेन स्थित्या लब्धोऽधिवासो वासना यया तया। तन्मुखसौरभवासितयेत्यर्थः। `संस्कारो गन्धमाल्याद्यैरधिवासनमुच्यते` । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । `व्यधजपोरनुपसर्गे-` (अष्टाध्यायी ३.३.६१ ) इत्यनुपसृष्टादप्प्रत्ययविधानादुपसृष्टाद्व्यधेर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्धविशेषम् । `आमोदः सोऽतिनिर्हारी` इत्यमरः । उद्वमन् उद्गिरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतद्गण्डूषमद्यगन्धस्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्मविशेषकत्वेन पूर्वसापेक्षत्वादङ्गाङ्गिभावेन संकरः। `तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
कु द्मि न्या क्त्रा न्त
र्वा ब्धा धि वा या
मु मो दं दि या
कृ ता नु व्या मु द्व मन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.