Loading data... On slow networks this could take a few minutes.
100%

प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥

मल्लिनाथः प्रोल्लसदिति ॥ पुनः । प्रकर्षेणोल्लसतां कुण्डलयोः प्रोतानां स्यूतानां पद्मरागदलानां माणिक्यशकलानां त्विषा कान्त्या । प्रोतेति प्रपूर्वाद्वेञः कर्मणि क्तः । यजादित्वात्संप्रसारणम् । कृष्णोत्तरासङ्गो नीलोत्तरीयम् । `द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च` इत्यमरः । तस्य रुचं चूतपल्लवस्येमां चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लववद्धूम्रां कुर्वन्नित्यर्थः । `धूम्रधूमलौ कृष्णलोहिते` इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्यापेक्षो निदर्शनालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रो ल्ल त्कु प्रो
द्म रा त्वि षा
कृ ष्णो त्त रा ङ्ग रु चं
वि च्चौ ल्ल वीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.