मल्लिनाथः
यियक्षमाणेनेति ॥ अथेन्द्रसंदेशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण । `तस्येदम् (अष्टाध्यायी ४.३.१२० ) इत्यण् । अन्यथा `स्त्रीभ्यो ढक्` (अष्टाध्यायी ४.१.१२० ) स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणि क्ते संप्रसारणदीर्घौ । तथा अभिचैद्यं शिशुपालं प्रति । `लक्षणेनाभिप्रती आभिमुख्ये` (अष्टाध्यायी २.१.१४ ) इत्यव्ययीभावः । `अभिरभागे` (अष्टाध्यायी १.४.९१ ) इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा। प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः । मुरं द्विषन् मुरारिः । `द्विषोऽमित्रे` (अष्टाध्यायी ३.२.१३१ ) इति शतृप्रत्यये `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यत्र `द्विषः शतुर्वा` (वा०) इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्यसुहृत्कार्यरूपेणाकुलो विप्रतिषेधादावश्यकत्वाच्च द्वयोः संदिहान आसीत् । अतो मन्त्रस्यायमवसर इति भावः
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| यि | य | क्ष | मा | णे | ना | हू | तः |
| पा | र्थे | ना | थ | द्वि | ष | न्मु | रम् |
| अ | भि | चै | द्यं | प्र | ति | ष्ठा | सु |
| रा | सी | त्का | र्य | द्व | या | कु | लः |
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.