दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥

मल्लिनाथः &#३२; दधदिति ॥ पुनः । संध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति तथोक्ताः । कुतः । द्विषतः शत्रोर्द्रेषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सक्ताः स्वेदविप्रुषः स्वेदबिन्दून् । `पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्` इत्यमरः । दधद्दधानः । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः । उपमालंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्सं न्ध्या रु व्यो
स्फु त्ता रा नु का रि णीः
द्व द्वे षो क्ता ङ्ग
ङ्गि नीः स्वे वि प्रु षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.