आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥

मल्लिनाथः आश्लेषेति ॥ पुनः । आश्लेषलोलुपाया आलिङ्गनलुब्धायाः वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणी उपद्रष्ट्रीम् । नित्यं पीड्यमानामिति भावः । `साक्षाद्द्रष्टरि संज्ञायाम्` (अष्टाध्यायी ५.२.९१ ) । इति साक्षाच्छब्दादिनिप्रत्ययः । वनमालामभिमानोष्णैरहंकारतप्तैर्मुखानिलैः निश्वासमारुतैर्म्लापयन् ग्लापयन् । म्लायतेर्ण्यन्ताल्लटः शत्रादेशः । `आदेच-` (अष्टाध्यायी ६.१.४५ ) इत्यात्वे पुगागमः । अम्लाने म्लानसंबन्धादतिशयोक्तिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्ले लो लु धू
स्त का र्क श्य सा क्षि णीं
म्ला न्न भि मा नो ष्णै
र्व मा लां मु खा नि लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.