Loading data... On slow networks this could take a few minutes.
100%

घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥

मल्लिनाथः घूर्णयन्निति ॥ पुनः । मदिरास्वादेन मद्यपानेन यो मदस्तेन पाटलिता ईषद्रक्तीकृता द्युतिर्ययोस्ते रेवत्या देव्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि अक्षिचुम्बनसंक्रान्तमिति भावः । तेन परिपूते शुद्धे पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयन्निति मद्यविकारोक्तिः । उच्छिष्टपरिपूतेत्यत्र `रतिकाले मुखं स्त्रीणां शुद्धमाखेटके शुनाम्` इति स्मरणात् । उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाद्विरोधाभासोऽलंकारः। `आभासत्वे विरोधस्य विरोधाभास उच्यते` इति लक्षणात्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
घू र्ण न्म दि रा स्वा
पा लि द्यु ती
रे ती नो च्छि ष्ट
रि पू पु टे दृ शौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.