Loading data... On slow networks this could take a few minutes.
100%

विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥

मल्लिनाथः विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुमिष्टाम् । वचेर्ब्रूञो वा सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एव इत्यविलम्बोक्तिः । प्रतिसंहृतां रामानुरोधानुरुद्धां अर्थविदः कार्यज्ञस्य अत एव पवनव्याधेरुद्धवस्य गिरमुत्तरपक्षतां सिद्धान्तपक्षतां प्रापयन् । स्वयमसत्पक्षावलम्बित्वादिति भावः । अनेन रामस्य व्यग्रतोक्ता
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि क्षि ता र्थ वि
स्त त्क्ष प्र ति सं हृ तां
प्रा न्प व्या धे
र्गि मु त्त क्ष ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.