Loading data... On slow networks this could take a few minutes.
100%

ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥

मल्लिनाथः तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः । सपत्नो रिपुः । `रिपौ वैरिसपनारि-` इत्यमरः । तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः । `भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः` इति विश्वः । तेन स्फुरतीति अनुशयस्फूः । तेन स्फुरा । ओष्टो बिम्बमिवेत्युपमितसमासः । रामायाः ओष्टबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुञ्चुः । तेन वित्तश्चुञ्चुप्चणपौ` (अष्टाध्यायी ५.२.२६ ) इति चुञ्चुप्प्रत्ययः। `ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्` (वा०) । तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तः त्ना
स्म णा नु स्फु रा
ष्ठे रा मो रा मो ष्ठ
बि म्ब चु म्ब चु ञ्चु ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.