Loading data... On slow networks this could take a few minutes.
100%

यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥

मल्लिनाथः यावदिति ॥ माधवो हरिः यावानर्थो यावदर्थम् । `यावदवधारणे` (अष्टाध्यायी २.१.८ ) इत्यव्ययीभावः । यावदर्थं पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः । एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विरराम तूष्णीमास । `व्याङ्परिभ्यो रमः` (अष्टाध्यायी १.३.८३ ) इति परस्मैपदम् । तथाहि-महीयांसः उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलंकारः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
या र्थ दां वा
मे मा दा मा वः
वि रा ही यां सः
प्र कृ त्या मि भा षि णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.