Loading data... On slow networks this could take a few minutes.
100%

मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥

मल्लिनाथः ममेति ॥ तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः। मम मतमिदम् । अङ्गेत्यामन्त्रणेऽव्ययम् । `अथ संबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः` इत्यमरः । वां युवयोः । `युष्मदस्मदोः षष्ठीचतुर्थी-` (अष्टाध्यायी ८.१.२० ) इत्यादिना वामादेशः । मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा संदेहानिवृत्तेरिति भावः । विदुषस्ते कुतः संदेहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येकः एकाकी कार्यवस्तुनि कर्तव्यार्थे संदिग्धे संशेते । खलु निश्चये । अतो मयापि संदिह्यत इत्यर्थः । `दिह उपचये` कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ता न्म मि दं
श्रू ता ङ्ग वा पि
ज्ञा सा रो ऽपि ल्वे कः
सं दि ग्धे का र्य स्तु नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.