Loading data... On slow networks this could take a few minutes.
100%

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥

मल्लिनाथः नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । `उत्सादिभ्योऽञ्` (अष्टाध्यायी ४.१.८६ ) । तस्याः सूनुश्चैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । `क्रुधद्रुह-` (अष्टाध्यायी १.४.३७ ) इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसंबन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् कर्तरि लट् । उत्तमपुरुषैकवचनम् । किंतु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । `लुपसदचरजप-` (अष्टाध्यायी ३.१.२४ ) इत्यादिना गर्हायां यङ् । `जपजभदहदशभञ्जपशां च` (अष्टाध्यायी ७.४.८६ ) इत्यभ्यासस्य नुमागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । `दुःखात्प्रातिलोम्ये` (अष्टाध्यायी ५.४.६४ ) इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
१०
दू ये सा त्व ती सू नु
र्य न्म ह्य रा ध्य ति
त्तु ह्य न्ते
लो दो दुः खा रो ति माम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.