Loading data... On slow networks this could take a few minutes.
100%

य इहात्मविदो विपक्षमध्ये
सह संवृद्धियुजोऽपि भूभुजः स्युः ।
बलिपुष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता तैः ॥

मल्लिनाथः य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्यं गता अपि `सत्सूद्विष-` (अष्टाध्यायी ३.२.६१ ) इत्यादिना क्विप् । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनःस्युः, यद्वा स्वात्मस्वरूपवेदिनः स्युस्तैर्भूभुग्भिः बलिपुष्टकुलात् काककुलात् । `काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः` इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात् । `अन्यारात्-` (अष्टाध्यायी २.३.२९ ) इत्यत्रान्यशब्दस्यार्थपरत्वात् पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिटि वृद्धिः । तेष्वपि केचिदस्माभिः संगच्छन्त इत्यर्थः । औपच्छन्दसिकं वृत्तम्
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
हा त्म वि दो वि क्ष ध्ये
सं वृ द्धि यु जो ऽपि भू भु जः स्युः
लि पु ष्ट कु ला दि वा न्य पु ष्टैः
पृ स्मा चि रे भा वि ता तैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.