सहजदोषचापलसमुद्धत-
श्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ
शलभतां लभतामसुहृद्गणः ॥

मल्लिनाथः सहजेति ॥ सहजं स्वाभाविकं चापलं दुर्विनीतत्वम् , अनवस्थितत्वं च । `चपलः पारदे शीघ्रे दुर्विनीतेऽनवस्थिते` इति वैजयन्ती । तेनैव दोषेण समुद्धतो दृप्तः पक्षः सहायो, गरुच्च । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति वैजयन्ती । चलितोऽस्थिरो दुर्बलपक्षपरिग्रहो यस्य स असुहृद्गणः शत्रुवर्गस्तव दुरासदवीर्यविभावसौ दुःसहतेजोवह्नौ । `वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि`, `सूर्यवह्नी ।&#३२; विभावसू` इति विश्वामरौ । शलभतां पतङ्गत्वम् । `समौ पतङ्गशलभौ` इत्यमरः । भावे तल् । लभतां गच्छतु । रूपकालंकारः । द्रुतविलम्बितं वृत्तम्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
दो चा मु द्ध
श्च लि दु र्ब क्ष रि ग्र हः
दु रा वी र्य वि भा सौ
तां ता सु हृ द्ग णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.