Loading data... On slow networks this could take a few minutes.
100%

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥

मल्लिनाथः सविशेषमिति ॥ पाण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्तिं तन्वति सति तरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायितारो वैरं कर्तारः। `शब्दवैरकलह-` (अष्टाध्यायी ३.१.१७ ) इत्यादिना क्यङ् । ततः कर्तरि लुट्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वि शे षं सु ते पा ण्डो
र्भ क्तिं ति न्व ति
वै रा यि ता स्त लाः
स्व यं त्स रि स्त ले
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.