उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥

मल्लिनाथः उपेयिवांसीति ॥ किंच उपायज्ञैः कार्यसाधनकुशलैस्तव चरन्तीति चरैर्गूढ[ श्लोकोऽयं `दत्त्वा भूमिं निबन्धं वा` इति याज्ञवल्क्यस्मृतावाचाराध्याये (श्लो० ३१८) पठ्यते ।]&#३२; चारिभिः । पचाद्यच् । एकार्थानि त्वया सहैकप्रयोजनानि राजन्यानां समूहा राजन्यकानि । `गोत्रोक्ष-(अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ्। अजातशत्रोरिमामाजातशात्रवीं पुरीमिन्द्रप्रस्थमुपेयिवांसि प्राप्नुवन्ति । `उपेयिवान्-` (अष्टाध्यायी ३.२.१०९ ) इत्यादिना क्वसुप्रत्ययान्तो निपातः । कर्तारः करिष्यन्ते । कृञः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्यं भविष्यति तदध्वरयात्राव्याजेन संनद्वैरागन्तव्यमिति गूढं संदिश्य तत्र सर्वे मेलयितव्या इत्यर्थः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पे यि वां सि र्ता रः
पु री मा जा त्र वीम्
रा न्य का न्यु पा ज्ञै
रे का र्था नि रै स्त
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.