Loading data... On slow networks this could take a few minutes.
100%

अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥

मल्लिनाथः अज्ञातेति ॥ किंचाज्ञातदोषैः परैरज्ञातस्वकर्मभिर्दोषज्ञैः स्वयं परमर्मज्ञैरभिव्यक्तानि भेद्यस्याग्रे प्रकटितानि शासनानि तदमात्याद्यविश्वासकराणि कूटलिखितानि येषां तैः उभयवेतनैरुभयत्र भेद्ये स्वामिनि च वेतनं भृतिर्येषां तैरुभयजीविकाग्राहिभिः, भेद्यनगरवास्तव्यैश्चरैरित्यर्थः । `भृतयो भर्म वेतनम्` इत्यमरः । शत्रोः संबन्धिनः समवायं समवयन्तीति सामवायिकाः सङ्घमुख्याः सचिवादयः । `समवायान्समवैति` (अष्टाध्यायी ४.४.४३ ) इति ठक् । उद्दूष्य द्विषामेते दत्तहस्ता अस्माभिरेषां लिखितान्येव गृहीतानीत्युच्चैर्दूषयित्वा भेद्या विघट्टनीयाः
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञा दो षै र्दे ज्ञै
रु द्दू ष्यो वे नैः
भे द्याः त्रो भि व्य क्त
शा नैः सा वा यि काः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.