Loading data... On slow networks this could take a few minutes.
100%

अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिरस्पशा ॥

मल्लिनाथः अनुदिति ॥ उत्सूत्र उच्छास्त्रो नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपोऽपि । स्वल्पव्यवहारोऽपीति यावत् । स नास्ति यस्यां सा अनुत्सूत्रपदन्यासा । नीतिपूर्वकसर्वव्यवहारेत्यर्थः । अन्यत्रानुत्सूत्रपदन्यासा अनुत्सृष्टसूत्राक्षरः इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव सर्वार्थप्रतिपादको न्यासो वृत्तिव्याख्यानग्रन्थविशेषो यस्यां सा तथोक्ता । तथा सती यथार्थं कल्पनया शोभना वृत्तिर्भृत्यामात्यादीनामाजीविका यस्यां सा सद्वृत्तिः, अन्यत्र सती वृत्तिः काशिकाख्यसूत्रव्याख्यानग्रन्थविशेषो यस्यां सा । `वृत्तिर्ग्रन्थजीवनयोः` इति वैजयन्ती । सन्ति निबन्धनान्यनुजीव्यादीनां क्रियावसानेषु दत्तानि गोहिरण्यादिशाश्वतपारितोषिकदानानि यस्यां सा । एतच्च `दत्त्वा भूमिनिबन्धनं च` *इत्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सन्निबन्धनं भाष्यग्रन्थो यस्यां सा। एवंभूतापि राजनीती राजवृत्तिः । अपगतः स्पशः चारो यस्याः सा अपस्पशा चेत् । `यथार्थवर्णो मन्त्रज्ञः स्पशो हरक उच्यते` इति हलायुधः । अन्यत्र अविद्यमानः पस्पशः शास्त्रारम्भसमर्थक उपोद्घातसंदर्भग्रन्थो यस्याः सा अपस्पशा शब्दविद्या व्याकरणविद्येव नो भाति न शोभते । तस्माच्चारप्रेषणमावश्यकम् , तद्रहितस्य राज्ञोऽन्धप्रायत्वादिति भावः । अत्रापस्पशेत्यत्र जतुकाष्ठवच्छब्दयोरेव श्लिष्टत्वाच्छब्दश्लेषः । सद्वृत्तिः सन्निबन्धनेत्यत्रैकवृन्तावलम्बिफलद्वयवदर्थश्लेषः । अनुत्सूत्रपदन्यासेत्यत्र तूभयसंभवादुभयश्लेषः । शब्दविद्येवेति पूर्णोपमा व्यक्तैव । तयोः सापेक्षत्वात्संकरः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.