कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥

मल्लिनाथः कृत्वेति ॥ किंतु कृत्यविदः कार्यज्ञाः, विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिणः । `प्रणिधिर्गूढपुरुषः` इति हलायुधः । तरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादश स्थानानि, जलावताराश्च । `योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पार्थे तीर्थं स्यात्` इति हलायुधः । तेष्वन्तः पदं स्थानं,पादप्रक्षेपं च कृत्वा महतो दुरवगाहस्य, पूज्यस्य च विद्विषन् शत्रूरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । `अधःस्वरूपयोरस्त्री तलम्` इत्यमरः । विदांकुर्वन्तु विदन्तु । `विद ज्ञाने` लोट् । `विदांकुर्वन्त्वित्यन्यतरस्याम्` (अष्टाध्यायी ३.१.४१ ) इति विकल्पादाम्प्रत्ययनिपातः । अम्भस इव शत्रोः कृततीर्थस्य सुप्रवेशत्वात् प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परितरूपकम्
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
१०
कृ त्वा कृ त्य वि स्ती र्थे
ष्व न्तः प्र णि यः दम्
वि दां कु र्व न्तु
स्त लं वि द्वि म्भ सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.